किसी भी प्रकार की महामारी एवं घातक रोग की निवृति एवं बचाव के लिए दैवी कवच पूर्ण रूप से प्रभावी हैं प्रतिदिन तीन आवृति पाठ करें।
॥ श्री दैवी कवच ॥
॥ चण्डीकवचम् ॥ श्रीगणेशाय नमः । अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः , अनुष्टुप् छन्दः , चामुण्डा देवता , अङ्गन्यासोक्तमातरो बीजम् , दिग्बन्धदेवतास्तत्वम् , श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः । ॐ नमश्चण्डिकायै । ॐमार्कण्डेय उवाच । ॐयद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥ ब्रह्मोवाच । अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥ प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥ अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । विषमे दुर्गे चैव भयार्ताः शरणं गताः ॥ ६॥ न तेषां जायते किञ्चिदशुभं रणसङ्कटे । नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥ ७॥ यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धिः प्रजायते । प्रेतसंस्था तु चामुण्डा वाराही महिषासना ॥ ८॥ ऐन्द्री गजसमारुढा वैष्णवी गरुडासना । माहेश्वरी वृषारुढा कौमारी शिखिवाहना ॥ ९॥ ब्राह्मी हंससमारुढा सर्वाभरणभूषिता । नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥ १०॥ दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः । शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ ११॥ खेटकं तोमरं चैव परशुं पाशमेव च । कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १२॥ दैत्यानां देहनाशाय भक्तानामभयाय च । धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १३॥ महाबले महोत्साहे महाभयविनाशिनी । त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ १४॥ प्राच्यां रक्षतु मामैन्द्री आग्नेयामग्निदेवता । दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी ॥ १५॥ प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी । उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ॥ १६॥ ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा । एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥ १७॥ जया मे अग्रतः स्थातु विजया स्थातु पृष्ठतः । अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥ १८॥ शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता । मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥ १९॥ त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके । शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ॥ २०॥ कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी । नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥ २१॥ अधरे चामृतकला जिह्वायां च सरस्वती । दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥ २२॥ घण्टिकां चित्रघण्टा च महामाया च तालुके । कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ॥ २३॥ ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी । नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ॥ २४॥ खड्गधारिण्युभौ स्कन्धौ बाहू मे वज्रधारिणी । हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीस्तथा ॥ २५॥ नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी । स्तनौ रक्षेन्महालक्ष्मीर्मनःशोकविनाशिनी ॥ २६॥ हृदये ललितादेवी उदरे शूलधारिणी । नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ॥ २७॥ कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी । भूतनाथा च मेढ्रं मे ऊरू महिषवाहिनी ॥ २८॥ जङ्घे महाबला प्रोक्ता सर्वकामप्रदायिनी । गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥ २९॥ पादाङ्गुलीः श्रीर्मे रक्षेत्पादाधस्तलवासिनी । नखान्दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ॥ ३०॥ रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा । रक्तमज्जावमांसान्यस्थिमेदांसी पार्वती ॥ ३१॥ अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी । पद्मावती पद्मकोशे कफे चुडामणिस्तथा ॥ ३२॥ ज्वालामुखी नखज्वाला अभेद्या सर्वसन्धिषु । शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ॥ ३३॥ अहङ्कारं मनो बुद्धिं रक्ष मे धर्मचारिणि । प्राणापानौ तथा व्यानं समानोदानमेव च ॥ ३४॥ यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी । गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ॥ ३५॥ पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी । मार्गं क्षेमकरी रक्षेद्विजया सर्वतः स्थिता ॥ ३६॥ रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु । तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ३७॥ पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥ ३८॥ तत्र तत्रार्थ लाभश्च विजयः सार्वकामिकः । यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ ३९॥ परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् । निर्भयो जायते मर्त्यः सङ्ग्रामेष्व पराजितः ॥ ४०॥ त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् । इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ ४१॥ यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः । दैवी कला भवेत्तस्य त्रैलोकेष्व पराजितः ॥ ४२॥ जीवेद्वर्षशतं साग्रमपमृत्यु विवर्जितः । नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ ४३॥ स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् । अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ ४४॥ भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः । सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ॥ ४५॥ अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः । ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ ४६॥ ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः । नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ ४७॥ मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् । यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ ४८॥ जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा । यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ ४९॥ तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रकी । देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ ५०॥ प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ५१॥ ॥ इति श्रीवाराहपुराणे हरिहरब्रह्मविरचितं देव्याः कवचं सम्पूर्णम् ॥
~~~~~~~~~~~~~~~~~~~~~~~~
कवच करने के बाद अमोध शिव माला मंत्र की भी तीन आवृत्ति किया जाना चाहिए।
॥ अमोध श्री शिवमाला मंत्र ॥
ॐ नमो भगवते सदाशिवाय ! त्र्यंबक सदाशिव ! नमस्ते नमस्ते ! ॐ ह्रीं ह्लीं लूं अ: एं ऐं महाघोरेशाय नम: ! ह्रीं ॐ ह्रौं शं नमो भगवते सदाशिवाय !
सकल तत्त्वात्मकाय , आनंद संदोहाय , सर्वमंत्रस्वरुपाय , सर्वयंत्राधिष्ठिताय , सर्वतंत्रप्रेरकाय , सर्वतत्त्वविदूराय , सर्वतत्त्वाधिष्ठिताय , ब्रह्मरुद्रावतारिणे , नीलकण्ठाय , पार्वतीमनोहरप्रियाय , महारुद्राय , सोमसूर्याग्निलोचनाय , भस्मोध्दूलितविग्रहाय , अष्टगंधादि गंधोपशोभिताय , शेषाधिपमुकुटभूषिताय , महामणिमुकुटधारणाय , सर्पालंकाराय , माणिक्यभूषणाय , सृष्टिस्थितिप्रलय काल रौद्रावताराय , दक्षाध्वरध्वंसकाय , महाकाल भेदनाय , महाकालोग्ररुपाय , मूलाधारैकनिलयाय !
तत्त्वातीताय , गंगाधराय , महाप्रपात विषभेदनाय ,महाप्रलयांतनृत्याधिष्ठिताय ,सर्वदेवाधिदेवाय , षडाश्रयाय , सकलवेदांत साराय ,त्रिवर्गसाधनायानंतकोटि ब्रह्माण्डनायकाया अनंत वासुकि तक्षक कर्कोटक शंख कुलिक पद्म महापद्म इति अष्ट महानागकुल भूषणाय प्रणवस्वरुपाय ! ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्र: , हां हीं हूं हैं हौं ह: !
चिदाकाशाय आकाशादि दिक स्वरुपाय ,ग्रहनक्षत्रादि सर्वप्रपंचमालिने ,सकलाय ,कलंकरहिताय ,सकललौकेक कर्त्रे ,सकललौकेकभर्त्रे , सकललौकेकसंहर्त्रे , सकललौकेकगुरवे , सकललौकेकसाक्षिणे , सकलनिगमगुह्याय ,सकलवेदांतपारगाय , सकललौकेक वरप्रदाय ,सकललौकेकसर्वदाय ,शर्मदाय ,सकललौकेक शंकराय !
शशांकशेखराय ,शाश्वत निजावासाय ,निराभासाय ,निराभयाय ,निर्मलाय ,निर्लोभाय ,निर्मदाय , निश्चिंताय , निरहंकाराय , निरंकुशाय ,निष्कलंकाय , निर्गुणाय , निष्कामाय , निरुप्लवाय ,निरवद्याय , निरंतराय , निष्कारणाय , निरातंकाय , निष्प्रयप्रकाय ,नि:संगाय ,निर्द्वंद्वाय , निराधाराय , नीरागाय ,निष्क्रोधाय , निर्मलाय ,निष्पापाय , निर्भयाय , निर्विकल्पाय , निस्तुलाय , नि:संशयाय , निरंजनाय ,निरुपमविभवाय , नित्यशुद्धबुद्ध परिपूर्ण सच्चिदानंदाद्वयाय ॐ हसौं ॐ हसौ: ह्रीं सौं क्ष म ल क्लीं क्ष म ल इ स्फ्रिं ऐं क्लीं सौ: क्षां क्षीं क्षूं क्षैं क्षौं क्ष: !
परमशांत स्वरुपाय , सोहं तेजोरुपाय , हंस तेजोमयाय , सच्चिदेकं ब्रह्ममहामंत्र स्वरुपाय , श्रीं ह्रीं क्लीं नमो भगवते विश्वगुरवे , स्मरणमात्रसंतुष्टाय , महाज्ञानप्रदाय , सच्चिदानंदात्मने , महायोगिने ,सर्वकामफलप्रदाय , भवबंधप्रमोचनाय , क्रों सकलविभूतिदाय ,क्रीं सर्वविश्व आकर्षणाय !
जय जय रुद्र , महारौद्र , वीरभद्रावतार , महाभैरव , कालभैरव , कल्पांतभैरव , कपालमालाधर , खटवांग खडग चर्म पाशांकुश डमरु शूल चाप बाण गदा शक्ति भिंदिपाल तोमर मुसल मुद्गर पाश वज्र परिघ भुशुंडी शतघ्नी ब्रह्मास्त्र पाशुपतास्त्र आदि महा अस्त्र चक्रायुधाय !
भीषणकर , सहस्त्रमुख दंष्ट्रा करालवदन , विकटाट्टहास , विस्फारित ब्रह्मांडमंडल , नागेंद्र कुंडल , नागेंद्रहार , नागेंद्र वलय , नागेंद्र चर्मधर ,मृत्युंजय, त्र्यंबक ,त्रिपुरांतक , विश्वरुप , विरुपाक्ष , विश्वंभर , विश्वेश्वर , वृषभवाहन , वृषविभूषण , विश्वतोमुख ! सर्वतो मां रक्ष रक्ष , ज्वल ज्वल ,प्रज्वल प्रज्वल , स्फुर स्फुर , आवेशय आवेशय , मम हृदये प्रवेशय प्रवेशय , प्रस्फुर प्रस्फुर !
महामृत्युं अपमृत्युंभयं नाशय नाशय , चोरभयम उत्सादय उत्सादय , विषसर्पभयं शमय शमय , चौरान मारय मारय , मम शत्रून उच्चाटय उच्चाटय , मम क्रोधादि सर्व सूक्ष्मतमात स्थूलतमात स्थूलतम पर्यंत स्थितान शत्रून उच्चाटय उच्चाटय ,त्रिशूलेन विदारय विदारय, कुठारेण भिंधि भिंधि , खडगेन छिंधि छिंधि , खटवांगेन विपोथय विपोथय , मुसलेन निष्पेषय निष्पेषय , बाणै: संताडय संताडय , रक्षांसि भीषय भीषय ,अशेष भूतानि विद्रावय विद्रावय , कूष्मांड वेताल मारीच गण ब्रह्मराक्षस गणान संत्रासय संत्रासय , सर्वरोगादि महाभयान मम अभयं कुरु कुरु , वित्रस्तं माम आश्वासय आश्वासय , नरक महाभयान माम उद्धार उद्धर , संजीवय संजीवय , क्षुत तृषा ईर्ष्यादि विकारेभ्यो माम आप्यायय आप्यायय ,दु:खातुरं माम आनंदय आनंदय , शिवकवचेन माम आच्छादय आच्छादय !
मृत्युंजय , त्र्यंबक , सदाशिव ! नमस्ते नमस्ते शं ह्रीं ॐ ह्रौं !
॥ रुद्राय नमः ॥